Apocalipse 13

SAN_DEV

1 ततः परमहं सागरीयसिकतायां तिष्ठन् सागराद् उद्गच्छन्तम् एकं पशुं दृष्टवान् तस्य दश शृङ्गाणि सप्त शिरांसि च दश शृङ्गेषु दश किरीटानि शिरःसु चेश्वरनिन्दासूचकानि नामानि विद्यन्ते।

2 मया दृष्टः स पशुश्चित्रव्याघ्रसदृशः किन्तु तस्य चरणौ भल्लूकस्येव वदनञ्च सिंहवदनमिव। नागने तस्मै स्वीयपराक्रमः स्वीयं सिंहासनं महाधिपत्यञ्चादायि।

3 मयि निरीक्षमाणे तस्य शिरसाम् एकम् अन्तकाघातेन छेदितमिवादृश्यत, किन्तु तस्यान्तकक्षतस्य प्रतीकारो ऽक्रियत ततः कृत्स्नो नरलोकस्तं पशुमधि चमत्कारं गतः,

4 यश्च नागस्तस्मै पशवे सामर्थ्यं दत्तवान् सर्व्वे तं प्राणमन् पशुमपि प्रणमन्तो ऽकथयन्, को विद्यते पशोस्तुल्यस्तेन को योद्धुमर्हति।

5 अनन्तरं तस्मै दर्पवाक्येश्वरनिन्दावादि वदनं द्विचत्वारिंशन्मासान् यावद् अवस्थितेः सामर्थ्यञ्चादायि।

6 ततः स ईश्वरनिन्दनार्थं मुखं व्यादाय तस्य नाम तस्यावासं स्वर्गनिवासिनश्च निन्दितुम् आरभत।

7 अपरं धार्म्मिकैः सह योधनस्य तेषां पराजयस्य चानुमतिः सर्व्वजातीयानां सर्व्ववंशीयानां सर्व्वभाषावादिनां सर्व्वदेशीयानाञ्चाधिपत्यमपि तस्मा अदायि।

8 ततो जगतः सृष्टिकालात् छेदितस्य मेषवत्सस्य जीवनपुस्तके यावतां नामानि लिखितानि न विद्यन्ते ते पृथिवीनिवासिनः सर्व्वे तं पशुं प्रणंस्यन्ति।

9 यस्य श्रोत्रं विद्यते स शृणोतु।

10 यो जनो ऽपरान् वन्दीकृत्य नयति स स्वयं वन्दीभूय स्थानान्तरं गमिष्यति, यश्च खङ्गेन हन्ति स स्वयं खङ्गेन घानिष्यते। अत्र पवित्रलोकानां सहिष्णुतया विश्वासेन च प्रकाशितव्यं।

11 अनन्तरं पृथिवीत उद्गच्छन् अपर एकः पशु र्मया दृष्टः स मेषशावकवत् शृङ्गद्वयविशिष्ट आसीत् नागवच्चाभाषत।

12 स प्रथमपशोरन्तिके तस्य सर्व्वं पराक्रमं व्यवहरति विशेषतो यस्य प्रथमपशोरन्तिकक्षतं प्रतीकारं गतं तस्य पूजां पृथिवीं तन्निवासिनश्च कारयति।

13 अपरं मानवानां साक्षाद् आकाशतो भुवि वह्निवर्षणादीनि महाचित्राणि करोति।

14 तस्य पशोः साक्षाद् येषां चित्रकर्म्मणां साधनाय सामर्थ्यं तस्मै दत्तं तैः स पृथिवीनिवासिनो भ्रामयति, विशेषतो यः पशुः खङ्गेन क्षतयुक्तो भूत्वाप्यजीवत् तस्य प्रतिमानिर्म्माणं पृथिवीनिवासिन आदिशति।

15 अपरं तस्य पशोः प्रतिमा यथा भाषते यावन्तश्च मानवास्तां पशुप्रतिमां न पूजयन्ति ते यथा हन्यन्ते तथा पशुप्रतिमायाः प्राणप्रतिष्ठार्थं सामर्थ्यं तस्मा अदायि।

16 अपरं क्षुद्रमहद्धनिदरिद्रमुक्तदासान् सर्व्वान् दक्षिणकरे भाले वा कलङ्कं ग्राहयति।

17 तस्माद् ये तं कलङ्कमर्थतः पशो र्नाम तस्य नाम्नः संख्याङ्कं वा धारयन्ति तान् विना परेण केनापि क्रयविक्रये कर्त्तुं न शक्येते।

18 अत्र ज्ञानेन प्रकाशितव्यं। यो बुद्धिविशिष्टः स पशोः संख्यां गणयतु यतः सा मानवस्य संख्या भवति। सा च संख्या षट्षष्ट्यधिकषट्शतानि।

Ler em outra tradução

Comparar lado a lado